11 अप्रैल (कामदा एकादशी) से आरंभ करें :
"विशिष्ट कङ्कालमालिनीतन्त्रे श्री गुरु महाकवचं"
॥ श्री गुरु महाकवचं ॥
॥ श्री देव्युवाच ॥
भूतनाथ ! महादेव ! कवचं तस्य मे वद ।
गुरुदेवस्य देवेश ! साक्षाद्ब्रह्मस्वरूपिणः ॥
॥ श्री ईश्वर उवाच ॥
अथ ते कथयामीशे ! कवचं मोक्षदायकम् ।
यस्य ज्ञानं विना देवि ! न सिद्धिर्न च सद्गतिः ॥
ब्रह्मादयोऽपि गिरिजे ! सर्वत्र जयिनः स्मृताः ।
अस्य प्रसादात् सकला, वेदागमपुरःसराः ॥
॥ अथ विनियोग: ॥
ॐ अस्य श्रीगुरुकवचस्य श्री विष्णु: ऋषि:, विराट छंद:, गुरुदेव-स्वयं-शिव: देवता, चतुर्वर्गे ज्ञानमार्गे पाठे विनियोग: ।
॥ अथ ऋष्यादिन्यास: ॥
श्रीविष्णुऋषये नमः शिरसि । विराट्-छंदसे नमः मुखे । गुरुदेव-स्वयं-शिव: देवतायै नमः हृदि । चतुर्वर्गे ज्ञान-मार्गे पाठे विनियोगाय नमः अञ्ज्लौ ।
॥ अथ कवचं ॥
सहस्रारे महापद्मे कर्पूरधवलो गुरुः ।
वामोरुस्थितशक्तिर्यः सर्वत्र परिरक्षतु ॥
परमाख्यो गुरुः पातु शिरसं मम वल्लभे !
परापराख्यो नासां मे परमेष्ठि मुखं सदा ॥
कण्ठं मम सदा पातु प्रह्लादानन्दनाथकः ।
बाहू द्वौ सनकानन्दः कुमारानन्द एव च ॥
वशिष्ठानन्दनाथश्च हृदयं पातु सर्वदा ।
क्रोधानन्दः कटिं पातु सुखानन्दः पदं मम ॥
ध्यानानन्दश्च सर्वाङ्गं बोधानन्दश्च कानने ।
सर्वत्र गुरवः पान्तु सर्वे ईश्वररूपिणः ॥
॥ फलश्रुति: ॥
इति ते कथितं भद्रे ! कवचं परमं शिवे !
भक्तिहीने दुराचारे दत्त्वैतन्मृत्युमाप्नुयात् ॥
अस्यैव पठनाद्देवि ! धारणात्छ्रवणात् प्रिये !
जायते मन्त्रसिद्धिश्च किमन्यत् कथयामि ते ॥
कण्ठे वा दक्षिणे बाहौ शिखायां वीरवन्दिते !
धारणान्नाशयेत् पापं गङ्गायां कल्मषं यथा ॥
इदं कवचमज्ञात्वा यदि मन्त्रं जपेत् प्रिये !
तत् सर्वं निष्फलं कृत्वा गुरुर्याति सुनिश्चितम् ।
शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ॥
॥ इति कङ्कालमालिनीतन्त्रे गुरुकवचं समाप्तम् ॥
विधि :
पहले अपने आसान के नीचे अपने गुरुधाम की मृत्तिका (मिट्टी) स्थापित करके शुक्ल पक्ष की एकादशी से चतुर्दशी तक प्रतिदिन अभिजित् मुहूर्त में 24 मिनट अपनी भृकुटी के मध्य द्विदल कमल पर स्थित अपने परमेष्ठि गुरु का ध्यान करते हुए “ॐ ऐं निखिलानन्दनाथ गुरवे नमः ॐ” मंत्र का अनुसंधान करें। तत्पश्चात पूर्णिमा के दिन गुरु की होरा में पारद श्रीगुरूयंत्र का पंचोपचार पूजन कर इस कवच को अष्टगंध स्याही से अनार की कलम से भोजपत्र पर लिखें और उसके सम्मुख कवच के 8 पाठ करें। फिर भोजपत्र को किसी ताबीज में रख कर धारण कर लें।
अधिक जानकारी के लिए gurusadhna21@gmail.com पर संपर्क करें।
निखिल प्रणाम __/\__