Join Free | Sign In | Blog

ganpati malamantra

ganpati malamantra

1...????गणपति मालामन्त्राः ????
2...? अथ श्रीवल्लभमहागणपति हृदयम् स्तोत्र ?
3...?? श्री हरिद्रा गणपति कवच ???
4...??? श्री त्रैलोक्य मोहन गणेश कवच?
5..??? संसार मोहन गणेश कवच?
6...??? श्री गणेश कवचम्???
???????????????
1...????गणपति मालामन्त्राः ????
ॐ क्लीं ह्रीं श्रीं ऐं ग्लौं ॐ ह्रीं क्रौं गं ॐ नमो भगवते
महागणपतये स्मरणमात्रसन्तुष्टाय सर्वविद्याप्रकाशाय सर्वकामप्रदाय
भवबन्धविमोचनाय ह्रीं सर्वभूतबन्धनाय क्रों साध्याकर्षणाय
क्लीं जगत्त्रय वशीकरणाय सौः सर्वमनःक्षोभणाय श्रीं
महासम्पत्प्रदाय ग्लौं भूमण्डलाधिपत्यप्रदाय महाज्ञानप्रदाय
चिदानन्दात्मने गौरीनन्दनाय महायोगिने शिवप्रियाय सर्वानन्दवर्धनाय
सर्वविद्याप्रकाशनप्रदाय द्रां चिरञ्जीविने ब्लूं सम्मोहनाय ॐ
मोक्षप्रदाय, फट् वशीकुरु वशीकुरु, वौषडाकर्षणाय हुं विद्वेषणाय
विद्वेषय विद्वेषय, फट् उच्चाटयोच्चाटय, ठः ठः
स्तम्भय स्तम्भय, खें खें मारय मारय, शोषय शोषय,
परमन्त्रयन्त्रतन्त्राणि छेदय छेदय, दुष्टग्रहान्निवारय
निवारय, दुःखं हर हर, व्याधिं नाशय नाशय, नमः
सम्पन्नाय सम्पन्नाय स्वाहा, सर्वपल्लवस्वरुपाय महाविद्याय गं
गणपतये स्वाहा, यन्मन्त्रे क्षितलाञ्छिताभमनघं मृत्युश्च
वज्राशिषो भूतप्रेतपिशाचकाः प्रतिहता निर्घातपातादिव, उत्पन्नं च
समस्तदुःखदुरितं ह्युच्चाटनोत्पादकं वन्देऽभीष्टगणाधिपं भयहरं
विघ्नौघनाशं परम्, ॐ गं गणपतये नमः । (वनदुर्गोपनिषदि)
ॐ नमो महागणपतये, महावीराय, दशभुजाय, मदनकालविनाशन, मृत्युं
हन हन, यम यम, मद मद, कालं संहर संहर, सर्वग्रहान् चूर्णय
चूर्णय, नागान् मूढय मूढय, रुद्ररूप, त्रिभुवनेश्वर, सर्वतोमुख
हुं फट् स्वाहा ।
ॐ नमो गणपतये, श्वेतार्कगणपतये, श्वेतार्कमूलनिवासाय,
वासुदेवप्रियाय, दक्षप्रजापतिरक्षकाय, सूर्यवरदाय, कुमारगुरवे,
ब्रह्मादिसुरासुरवन्दिताय, सर्पभूषणाय, शशाङ्कशेखराय,
सर्पमालाऽलङ्कृतदेहाय, धर्मध्वजाय, धर्मवाहनाय, त्राहि त्राहि,
देहि देहि, अवतर अवतर, गं गणपतये, वक्रतुण्डगणपतये,
वरवरद, सर्वपुरुषवशङ्कर, सर्वदुष्टमृगवशङ्कर,
सर्वस्ववशङ्कर, वशीकुरु वशीकुरु, सर्वदोषां बन्धय बन्धय,
सर्वव्याधीन् निकृन्तय निकृन्तय, सर्वविषाणी संहर संहर,
सर्वदारिद्र्यं मोचय मोचय, सर्वविघ्नान् छिन्धि छिन्धि,
सर्व वज्राणि स्फोटय स्फोटय, सर्वशत्रून् उच्चाटय उच्चाटय,
सर्वसिद्धिं कुरु कुरु, सर्वकार्याणि साधय साधय, गां गीं गूं गैं
गौं गं गणपतये हुं फट् स्वाहा ।
ॐ नमो गणपते महावीर दशभुज मदनकालविनाशन मृत्युं हन
हन, कालं संहर संहर, धम धम, मथ मथ, त्रैलोक्यं
मोहय मोहय, ब्रह्मविष्णुरूद्रान् मोहय मोहय, अचिन्त्य बल
पराक्रम, सर्वव्याधीन् विनाशाय, सर्वग्रहान् चूर्णय चूर्णय,
नागान् मोटय मोटय, त्रिभुवनेश्वर सर्वतोमुख हुं फट् स्वाहा ।
ॐ नमो गणपते महावीर दशभुज मदनकालविनाशन मृत्युं हन
हन, धम धम, मथ मथ, कालं संहर संहर, सर्वग्रहान्
चूर्णय चूर्णय, नागान् मोटय मोटय, रुद्ररूप, त्रिभुवनेश्वर,
सर्वतोमुख हुं फट् स्वाहा । (भूतविषादि दमनोऽयम्)
☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️
2...? अथ श्रीवल्लभमहागणपति हृदयम् स्तोत्र ?
ॐ श्रीं ह्रीं क्लीं ऐं श्रीं श्रीवल्लभ महागणपतये नमः
ॐ आदिनारायण च विदमहे श्रीवल्लभ महागणपतये धीमहि तन्नो आदि विनायक! प्रचोदयात् ।
श्रीदेव्युवाच -
वल्लभेशस्य हृदयं कृपया ब्रूहि शङ्कर ।
श्रीशिव उवाच -
ऋष्यादिकं मूलमन्त्रवदेव परिकीर्तितम् ॥१॥
ॐ विघ्नेशः पूर्वतः पातु गणनाथस्तु दक्षिणे ।
पश्चिमे गजवक्त्रस्तु उत्तरे विघ्ननाशनः ॥२॥
आग्नेय्यां पितृभक्तस्तु नैरृत्यां स्कन्दपूर्वजः ।
वायव्यामाखुवाहस्तु ईशान्यां देवपूजितः ॥३॥
ऊर्ध्वतः पातु सुमुखो ह्यधरायां गजाननः ।
एवं दशदिशो रक्षेत् विकटः पापनाशनः ॥४॥
शिखायां कपिलः पातु मूर्धन्याकाशरूपधृक् ।
किरीटिः पातु नः फालं भ्रुवोर्मध्ये विनायकः ॥५॥
चक्षुषी मे त्रिनयनः श्रवणौ गजकर्णकः ।
कपोलयोर्मदनिधिः कर्णमूले मदोत्कटः ॥६॥
सदन्तो दन्तमध्येऽव्यात् वक्त्रं पातु हरात्मजः ।
चिबुके नासिके चैव पातु मां पुष्करेक्षणः ॥७॥
उत्तरोष्ठे जगद्व्यापी त्वधरोष्ठेऽमृतप्रदः ।
जिह्वां विद्यानिधिः पातु तालुन्यापत्सहायकः ॥८॥
किन्नरैः पूजितः कण्ठं स्कन्धौ पातु दिशाम्पतिः ।
चतुर्भुजो भुजौ पातु बाहुमूलेऽमरप्रियः ॥९॥
अंसयोरम्बिकासूनुरङ्गुलीश्च हरिप्रियः ।
आन्त्रं पातु स्वतन्त्रो मे मनः प्रह्लादकारकः ॥१०॥
प्राणाऽपानौ तथा व्यानमुदानं च समानकम् ।
यशो लक्ष्मीं च कीर्तिं च पातु नः कमलापतिः ॥११॥
हृदयं तु परम्ब्रह्मस्वरूपो जगदिपतिः ।
स्तनौ तु पातु विष्णुर्मे स्तनमध्यं तु शाङ्करः ॥१२॥
उदरं तुन्दिलः पातु नाभिं पातु सुनाभिकः ।
कटिं पात्वमलो नित्यं पातु मध्यं तु पावनः ॥१३॥
मेढ्रं पातु महायोगी तत्पार्श्वं सर्वरक्षकः ।
गुह्यं गुहाग्रजः पातु अणुं पातु जितेन्द्रियः ॥१४॥
शुक्लं पातु सुशुक्लस्तु ऊरू पातु सुखप्रदः ।
जङ्घदेशे ह्रस्वजङ्घो जानुमध्ये जगद्गुरुः ॥१५॥
गुल्फौ रक्षाकरः पातु पादौ मे नर्तनप्रियः ।
सर्वाङ्गं सर्वसन्धौ च पातु देवारिमर्दनः ॥१६॥
पुत्रमित्रकलत्रादीन् पातु पाशाङ्कुशाधिपः ।
धनधान्यपशूंश्चैव गृहं क्षेत्रं निरन्तरम् ॥१७॥
पातु विश्वात्मको देवो वरदो भक्तवत्सलः ।
रक्षाहीनं तु यत्स्थानं कवचेन विना कृतम् ॥१८॥
तत्सर्वं रक्षयेद्देवो मार्गवासी जितेन्द्रियः ।
अटव्यां पर्वताग्रे वा मार्गे मानावमानगे ॥१९॥
जलस्थलगतो वाऽपि पातु मायापहारकः ।
सर्वत्र पातु देवेशः सप्तलोकैकसङ्क्षितः ॥२०॥
॥ फलश्रुतिः ॥
य इदं कवचं पुण्यं पवित्रं पापनाशनम् ।
प्रातःकाले जपेन्मर्त्यः सदा भयविनाशनम् ॥२१॥
कुक्षिरोगप्रशमनं लूतास्फोटनिवारणम् ।
मूत्रकृच्छ्रप्रशमनं बहुमूत्रनिवारणम् ॥२२॥
बालग्रहादिरोगाणान्नाशनं सर्वकामदम् ।
यः पठेद्धारयेद्वाऽपि करस्थास्तस्य सिद्धयः ॥२३॥
यत्र यत्र गतश्चाश्पी तत्र तत्राऽर्थसिद्धिदम् ॥२४॥
यश्शृणोति पठति द्विजोत्तमो विघ्नराजकवचं दिने दिने ।
पुत्रपौत्रसुकलत्रसम्पदः कामभोगमखिलांश्च विन्दति ॥२५॥
यो ब्रह्मचारिणमचिन्त्यमनेकरूपं ध्यायेज्जगत्रयहितेरतमापदघ्नम् ।
सर्वार्थसिद्धिं लभते मनुष्यो विघ्नेशसायुज्यमुपेन्न संशयः ॥ २६॥
॥ इति श्रीविनायकतन्त्रे श्रीवल्लभगणपति हृदयं स्तोत्र
सम्पूर्णम्। ॥
☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️
3...??? हरिद्रागणेशकवचम् ????
श्रीगणेशाय नमः।
ईश्वर उवाच।
शृणु वक्ष्यामि कचं सर्वसिद्धिकरं प्रिये।
पठित्वा च मुच्यते सर्वसङकटात् 1॥
अज्ञात्वा कच देवि गणेशस्य मनुं जपेट।
सिद्धिर्नजायते तस्य कल्पकोटीशतैरपि दो॥
ॐ मोदश्च शिरः पातु प्रमोदशशिखोपरि ।
एडमोदो भ्रुयुगे पातु भ्रुमध्ये च गणाधिपः 3॥
आँख की आँख की आँख की आँख की आँख की गणना: ।
गणक्रीडान्वितः पातु वदने सर्व सिद्धये 4
जिह्वायन सुमुखः पातुग्रीव धुरमुखः सदा।
विघ्नशो हृदये पातु विघ्ननाथश्च वक्षसि 5
गणानां नायकः पातु बाहु जोड़ी सदाबहार मम।
विघ्नकर्ता ह्युदरे विघ्नहर्ता च लिङ्गके 6
गजवक्त्रः कटीदेश एकदंतो नितम्बके।
लम्बोदरः सदा पातु देशे ममारुणः 7॥
यतु पादयुग्य सदा।
जापकः सर्वदा पातु जानुजङ्घे गणधिपः 8॥
हारिद्रः सर्वदा पातु सर्वा्गे गणनाः ।
य इदं प्रपठेन्नित्यं गणेशस्य महेश्वरी ॥ 9
कचं सिद्ध सर्वाख्यं सर्वविघ्नविनाशनम्।
सर्व सिद्धिकरं साक्षात् सर्वपापविमोचनम् 10॥
सर्वसम्पत् परिवारं साक्षात् सर्वदुःखविमोशनम्।
सर्वातीप्रशमनं सर्वशत्रुक्षयङ्करम् 11
ये चान्ये गुह्यकदयः ग्रह।
पठनाद्वासनादेव 12
धनधान्यकरं देवि कचं सुरपूजितम्।
सामं नास्ति महिमानि त्रैलोक्ये कोच्य च 13॥
हरिद्रस्य महादेवी विघ्नराजस्य भूतपूर्व।
किमन्यैरसदालापर्यत्रयुर्व्यतामियात् 14
मैं इति विश्वसार तन्त्र हरिद्रागणेशकवचं पूर्णम्
☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️
4....??श्रीमन्गणपतेः त्रैलोक्यमोहनकवचम्??
श्री गणेशाय नमः ।
नमस्तस्मै गणेशाय सर्वविघ्नविनाशिने ।
कार्यारम्भेषु सर्वेषु पूज्यते यः सुरैरपि ॥ १॥
श्रीमन्महागणपतेः कवचस्य ऋषिः शिवः ।
गणपतिर्देवता च गायत्री छन्दः एव च ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
शक्तिः स्वाहा ग्लैँ बीजं विनियोगस्य कीर्तितः ॥
अथ न्यासः ।
ॐ श्रीँ ह्रीँ क्लीँ अङ्गुष्ठाभ्यां नमः ।
ग्लौँ गँ गणपतये तर्जनीभ्यां नमः ।
वरवरद मध्यमाभ्यां नमः ।
सर्वजनं मे अनामिकाभ्यां नमः ।
वशमानय कनिष्ठिकाभ्यां नमः ।
स्वाहा कर्तल करपृष्ठाभ्यां नमः ।
एवं हृदयादि न्यासः ॥
ध्यानं -
हस्तीन्द्राननमिन्दुचूडमरुणच्छायं त्रिनेत्रं रसा
दाश्लिष्टं प्रियया सपद्मकरया स्वाङ्कस्थया सन्ततम् ।
बीजापूरगदाधनुस्त्रिशिखयुक् चक्राब्जपाशोत्पल
व्रीह्यग्रस्वविषाणरत्नकलशान् हस्तैर्वहन्तं भजे ।
अथ कवचम् ।
ॐ ब्रह्मबीजं शिरः पातु केवलं मुक्तिदायकम् ।
श्रीँ बीजमक्षिणी पातु सर्वसिद्धिसमर्पकम् ॥ १॥
हृल्लेखा श्रोत्रयोः पातु सर्वशत्रुविनाशिनी ।
कामबीजं कपोलौ च सर्वदुष्टनिवारणम् ॥ २॥
ग्लौँ गँ च गणपतये वाचं पातु विनायकः ।
वरबीजं तथा जिह्वां वरदं हस्तयोस्तथा ॥ ३॥
सर्वजनं मे च बाहुद्वयं कण्ठं गणेश्वरः ।
वशं मे पातु हृदयं पातु सिद्धीश्वरस्तथा ॥ ४॥
नाभिमानय मे पातु सर्वसिद्धिविनायकः ।
जङ्घयोर्गुल्फयोः स्वाहा सर्वाङ्गं विघ्ननायकः ॥ ५॥
गणपतिस्त्वग्रतः पातु गणेशः पृष्ठतस्तथा ।
दक्षिणे सिद्धिदः पातु वामे विश्वार्तिहारकः ॥ ६॥
दुर्जयो रक्षतु प्राच्यामाग्नेय्यां गणपस्तथा ।
दक्षिणस्यां गिरिजजो नैरृत्यां शम्भुनन्दनः ॥ ७॥
प्रतीच्यां स्थाणुजः पातु वायव्यामाखुवाहनः ।
कौबेर्यामीश्वरः पातु ईशान्यामीश्वरात्मजः ॥ ८॥
अधो गणपतिः पातु ऊर्धं पातु विनायकः ।
एताभ्यो दशदिग्भ्यस्तु पातु नित्यं गणेश्वरः ॥ ९॥
इतीदं कथितं देवि ब्रह्मविद्याकलेवरम् ।
त्रैलोक्यमोहनं नाम कवचं ब्रह्मरूपकम् ॥ १०॥
इति गणपतेः त्रैलोक्यमोहनकवचं सम्पूर्णम् ।
☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️
5..???संसार मोहन गणेश कवचम्???
विनियोग
ॐ अस्य श्री गणेश कवच मंत्रस्य, प्रजापतिः ऋषिः,
वृहती छन्दः , श्रीगजमुख विनायको देवता, गं बीजं,
गीं शक्तिः, गः कीलकम्, धर्मकामार्थमोक्षेषु,
श्री गणपति प्रीत्यर्थे जपे विनियोगः |
|| कवचम् ||
ॐ गं हुं श्रीगणेशाय स्वाहा में पातु मस्तकम् |
द्वात्रिंदशाक्षरो मंत्रो ललाटो मे सदाऽवतु ||
ॐ ह्रीं श्रीं क्लीं गमिति वै सततं पातु लोचनम् |
तालुकं पातु विघ्नेशः सततं धरणीतले ||
ॐ ह्रीं श्रीं क्लीमिति परं सततं पातु नासिकाम् |
ॐ गौं गं शूपकर्णाय स्वाहा पात्वधरं मम् ||
दन्ताश्च तालुकां जिह्वा पातु में षोडशाक्षरः |
ॐ लं श्रीलम्बोदरायेति स्वाहा गण्डं सदाऽवतु ||
ॐ क्लीं ह्रीं विघ्ननाशाय स्वाहा कर्णम् सदाऽवतु |
ॐ श्रीं गं गजाननायेति स्वाहा स्कन्धं सदाऽवतु ||
ॐ ह्रीं विनायकायेति स्वाहा पृष्ठं सदाऽवतु |
ॐ क्लीं ह्रीमिति कंकालं पातु वक्षःस्थलं च गम् ||
करौ पादौ सदा पातु सर्वाङ्गं विघ्ननिघ्नकृत् |
प्राच्यां लम्बोदरः पातु चाग्नेयां विघ्ननायकः ||
दक्षिणे पातु विघ्नेशो नैरृत्यां तू गजाननः |
पश्चिमे पार्वती पुत्रो वायव्यां शङ्करात्मजः ||
कृष्णस्यांशश्चोत्तरे च परिपूर्णतमस्य च |
ऐशान्यामेकदंतश्च हेरम्बः पातु चोर्ध्वतः ||
अधो गणपतिः पातु सर्वपूज्यश्च सर्वतः |
स्वप्ने जागरणे चैव पातु मां योगिनां गुरुः ||
इति ते कथितं वत्स सर्वमंत्रौघविग्रहम् |
संसार मोहनं नाम कवचं परमाद्भुतम् ||
|| इति श्री ब्रह्मवैवर्त्तान्तर्गते श्रीसंसारमोहन गणेश कवच सम्पूर्णं ||
☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️☘️
6.??? श्रीगणेशकवचम् ???
गौर्युवाच ।
एषोऽतिचपलो दैत्यान्बाल्येऽपि नाशयत्यहो ।
अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ १॥
दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः ।
अतोऽस्य कण्ठे किञ्चित्त्वं रक्षार्थं बद्धुमर्हसि ॥ २॥
मुनिरुवाच ।
ध्यायेत्सिंहहतं विनायकममुं दिग्बाहुमाद्ये युगे
त्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम् ।
द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुम्
तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा ॥ ३॥
विनायकः शिखां पातु परमात्मा परात्परः ।
अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः ॥ ४॥
ललाटं कश्यपः पातु भृयुगं तु महोदरः ।
नयने भालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ ॥ ५॥
जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः ।
वाचं विनायकः पातु दन्तान् रक्षतु विघ्नहा ॥ ६॥
श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः ।
गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जयः ॥ ७॥
स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः ।
हृदयं गणनाथस्तु हेरंबो जठरं महान् ॥ ८॥
धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरः शुभः ।
लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः ॥ ९॥
गणक्रीडो जानुसङ्घे ऊरु मङ्गलमूर्तिमान् ।
एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु ॥ १०॥
क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः ।
अङ्गुलीश्च नखान्पातु पद्महस्तोऽरिनाशनः ॥ ११॥
सर्वाङ्गानि मयूरेशो विश्वव्यापी सदाऽवतु ।
अनुक्तमपि यत्स्थानं धूम्रकेतुः सदाऽवतु ॥ १२॥
आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु ।
प्राच्यां रक्षतु बुद्धीश आग्नेयां सिद्धिदायकः ॥१३॥
दक्षिणास्यामुमापुत्रो नैरृत्यां तु गणेश्वरः ।
प्रतीच्यां विघ्नहर्ताऽव्याद्वायव्यां गजकर्णकः ॥ १४॥
कौबेर्यां निधिपः पायादीशान्यामीशनन्दनः ।
दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत् ॥ १५॥
राक्षसासुरवेतालग्रहभूतपिशाचतः ।
पाशाङ्कुशधरः पातु रजःसत्त्वतमः स्मृतिः ॥ १६॥
ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्ति तथा कुलम् ।
वपुर्धनं च धान्यं च गृहान्दारान्सुतान्सखीन् ॥ १७॥
सर्वायुधधरः पौत्रान् मयूरेशोऽवतात्सदा ।
कपिलोऽजादिकं पातु गजाश्वान्विकटोऽवतु ॥ १८॥
भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत्सुधीः ।
न भयं जायते तस्य यक्षरक्षःपिशाचतः ॥ १८॥
त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् ।
यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ॥ २०॥
युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्द्रुतम् ।
मारणोच्चाटकाकर्षस्तम्भमोहनकर्मणि ॥ २१॥
सप्तवारं जपेदेतद्दिनानामेकविंशतिम् ।
तत्तत्फलवाप्नोति साधको नात्रसंशयः ॥२२॥
एकविंशतिवारं च पठेत्तावद्दिनानि यः ।
कारागृहगतं सद्योराज्ञा वध्यं च मोचयेत् ॥ २३॥
राजदर्शनवेलायां पठेदेतत्त्रिवारतः ।
स राजसं वशं नीत्वा प्रकृतीश्च सभां जयेत् ॥ २४॥
इदं गणेशकवचं कश्यपेन समीरितम् ।
मुद्गलाय च ते नाथ माण्डव्याय महर्षये ॥ २५॥
मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् ।
न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥ २६॥
यस्यानेन कृता रक्षा न बाधास्य भवेत्क्वचित् ।
राक्षसासुरवेतालदैत्यदानवसम्भवा ॥ २७॥
इति श्रीगणेशपुराणे उत्तरखण्डे बालक्रीडायां
षडशीतितमेऽध्याये गणेशकवचं सम्पूर्णम् ॥
.

Guru Sadhana News Update

Blogs Update